(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.67. अध्यायः 067
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति सारभूतात्सर्वस्मादपि श्रीकृष्णस्य सारतरत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

सञ्जय उवाच। 5-67-0x(3598)(34261)
अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ।
कामादन्यत्र संभूतौ सर्वभावाय संमितौ॥ 5-67-1(34262)
व्यामान्तरं समास्थय यथामुक्तं मनस्विनः ।
चक्रं तद्वासुदेवस्य मायया वर्तते विभो॥ 5-67-2(34263)
सापह्नवं कौरवेषु पाण्डवानां सुसंमतम्।
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ॥ 5-67-3(34264)
नरकं शम्बरं चैव कंसं चैद्यं च माधवः।
जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः ॥ 5-67-4(34265)
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥ 5-67-5(34266)
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति ।
सारासारबलं ज्ञातुं तत्समासेन मे शृणु ॥ 5-67-6(34267)
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः।
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥ 5-67-7(34268)
भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः ।
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने ॥ 5-67-8(34269)
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥ 5-67-9(34270)
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः।
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥ 5-67-10(34271)
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव ।
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥ 5-67-11(34272)
कालचक्रं जगच्चक्रं युगचक्रं च केशवः।
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥ 5-67-12(34273)
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।
ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते ॥ 5-67-13(34274)
ईशन्नपि महायोगी सर्वस्य जगतो हरिः।
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ 5-67-14(34275)
तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ ॥ 5-67-15(34276)

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तषष्टितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-67-2 व्यामान्तरं प्रसारितयोर्हस्तयोर्यावान्विस्तारः पञ्चहस्तमितः तावत् अन्तरं मध्यप्रमाणं यस्य तद्व्यामान्तरम्। यथामुक्तं यथा यथारूपं यावत्प्रमाणं चिन्तितं तावत्प्रमाणं भूत्वा यत् मुक्तं भवति। मायया दुर्लक्ष्यरूपेणेत्यर्थः ॥ 5-67-3 सापह्नवं ससंहारम्। अत एव पाण्डवानां सुसंमतम् ॥ 5-67-11 सत्रं व्याजम्। सत्रमाच्छादने यज्ञे सदादाने च कैतवे इति विश्वः ॥ 5-67-14 ईसन्नपि ईशानोपि। कीनाश कर्षकः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.